Ganpati Atharvashirsha in Hindi – 1 of best stotram

 

Ganpati Atharvashirsha in Hindi | Ganesh Atharvashirsha in Hindi

full Ganpati Atharvashirsha Lyrics in Hindi गणपति अथर्वशीर्ष इन हिंदी Ganesh Atharvashirsha in Hindi Ganpati Atharvashirsha ka path Ganesh Atharvashirsha Path गणपति अथर्वशीर्ष पाठ Ganpati Atharvashirsha In Sanskrit-Hindi गणपति अथर्वशीर्ष लिरिक्स इन हिंदी – Full Ganpati Atharvashirsha with Shanti Mantra.

Ganpati Atharvashirsha in Hindi | Ganesh Atharvashirsha in Hindi

|| शान्तिमन्त्र ||

ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः ।

भद्रम् पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः

व्यशेम देवहितं यदायुः ।।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्ताक्ष्र्योऽअरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दधातु ।।

ॐ शान्तिः शान्तिः शान्तिः ।।

Ganpati Atharvashirsha in Hindi | Ganesh Atharvashirsha in Hindi

।। गणपति अथर्वशीर्ष पाठ ।।

ॐ नमस्ते गणपतये ॥ 

त्वमेव प्रत्यक्षं तत्वमसि ॥ 

त्वमेव केवलं कर्तासि ॥ 

त्वमेव केवलं धर्तासि ॥ 

त्वमेव केवलं हर्तासि ॥ 

त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ 

त्वं साक्षादात्मासि नित्यम् ॥१॥

ऋतम् वच्मि ॥ सत्यं वच्मि ॥ २॥

अव त्वं माम्‌ ॥ अव वक्तारम् ॥ 

अव श्रोतारम् ॥ अव दातारम् ॥ 

अव धातारम् ॥ अवानूचानमव शिष्यम् ॥ 

अव पश्चात्तात्‌ ॥ अव पुरस्तात् ॥ 

अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥ 

अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ 

सर्वतो मां पाहि पाहि समन्तात् ॥३॥

त्वं वाङ्मयस्त्वं चिन्मयः ॥ 

त्वमानंदमयस्त्वं ब्रह्ममयः ॥ 

त्वं सच्चिदानंदाद्वितीयोऽसि। 

त्वं प्रत्यक्षं ब्रह्मासि। 

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥

सर्वं जगदिदं त्वत्तो जायते ॥ 

सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ 

सर्वं जगदिदं त्वयि लयमेष्यति ॥ 

सर्वं जगदिदं त्वयि प्रत्येति ॥ 

त्वं भूमिरापोऽनलोऽनिलो नभः ॥ 

त्वं चत्वारि वाक्पदानि ॥५॥

त्वं गुणत्रयातीतः। त्वं अवस्थात्रयातीतः। 

त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। 

त्वं मूलाधारस्थितोऽसि नित्यम् ॥ 

त्वं शक्तित्रयात्मकः। 

त्वां योगिनो ध्यायन्ति नित्यम् ॥ 

त्वं ब्रहमा त्वं विष्णुस्त्वं 

रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं 

वायुस्त्वं सूर्यस्त्वं‌ चंद्रमास्त्वं 

ब्रह्मभूर्भुवः स्वरोम् ॥६॥

गणादिन् पूर्वमुच्चार्य वर्णादिं तदनं तरम् । 

अनुस्वारः परतरः। अर्धेन्दुलसितम्। 

तारेण ऋद्धम्। एतत्तव मनुस्वरूपम्। 

गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। 

अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। 

नादः संधानम् ॥ संहिता सन्धिः। 

सैषा गणेशविद्या। गणक ऋषिः। 

निचृद्‌गायत्रीछंदः गणपतिर्देवता। 

ॐ गं गणपतये नमः ॥७॥

एकदन्ताय विद्महे वक्रतुंडाय धीमहि। 

तन्नो दंतिः प्रचोदयात् ॥ ८ ॥

एकदन्तं चतुर्हस्तम् पाशमंकुशधारिणम् ॥ 

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्। 

रक्तम् लम्बोदरं शूर्पकर्णकं रक्तवाससम् ॥ 

रक्तगन्धानुलिप्तांगं रक्तपुष्पैः सुपूजितम्। 

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्। 

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ 

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये 

नमस्तेऽस्तु लम्बोदरायैकदन्ताय 

विघ्ननाशिने शिवसुताय 

श्रीवरदमूर्तये नमो नमः ॥ १० ॥

Ganesh Atharvashirsha Path

Ganpati Atharvashirsha in Hindi | Ganesh Atharvashirsha in Hindi

एतदथर्वशीर्षम्‌ योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥ 

स सर्वतः सुखमेधते ॥ स सर्वविघ्नैर्न बाध्यते ॥ 

स पंचमहापापात्प्रमुच्यते ॥ 

सायमधीयानो दिवसकृतम्‌ पापान्‌ नाशयति ॥ 

प्रातरधीयानो रात्रिकृतम्‌ पापान्‌ नाशयति ॥ 

सायं प्रातः प्रयुंजानो अपापो भवति ॥ 

सर्वत्राधीयानोऽपविघ्नो भवति। 

धर्मार्थकाममोक्षं च विंदति ॥

इदम्‌ अथर्वशीर्षम्‌ अशिष्याय न देयम्‌॥ 

यो यदि मोहाद्दास्यति ॥ स पापीयान्‌ भवति ॥ 

सहस्रावर्तनात्‌ यं यं काममधीते तं तमनेन साधयेत्‌॥११॥

अनेन गणपतिम्‌ अभिषिंचति ॥ स वाग्मी भवति ॥ चतुर्थ्यामनश्नंजपति ॥ स विद्यावान्भवति ॥

इत्यथर्वणवाक्यम्‌॥ ब्रह्माद्यावरणं विद्यात्‌॥ 

न बिभेति कदाचनेति ॥ १२ ॥

यो दूर्वांकुरैर्यजति ॥ स वैश्रवणोपमो भवति ॥ 

यो लाजैर्यजति ॥ स यशोवान्भवति ॥ 

स मेधावान्भवति ॥ यो मोदकसहस्रेण यजति ॥ 

स वांछितफलमवाप्नोति ॥

यः साज्यसमिद्भिर्यजति ॥ 

स सर्वम् लभते स सर्वम् लभते ॥

 अष्टौ ब्राह्मणान्‌ सम्यग्राहयित्वा ॥ 

सूर्यवर्चस्वी भवति ॥ 

सूर्यग्रहे महानद्यां प्रतिमासंनिधौ 

वा जप्त्वा सिद्धमन्त्रो भवति ॥ महाविघ्नात्प्रमुच्यते। महादोषात्प्रमुच्यते ॥ महापापात्प्रमुच्यते ॥ 

स सर्वविद्भवति स सर्वविद्भवति ॥ 

य एवं वेद इत्युपनिषत्‌ ॥१३॥

Read More – Best Ganesh Bhajan Lyrics

ganpati atharvashirsha
ganpati atharvashirsha

Ganpati Atharvashirsha in Hindi | Ganesh Atharvashirsha in Hindi

|| शान्तिमन्त्र ||

ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः ।

भद्रम् पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः

व्यशेम देवहितं यदायुः ।।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्ताक्ष्र्योऽअरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दधातु ।।

ॐ शान्तिः शान्तिः शान्तिः ।।

Ganpati Atharvashirsha in Hindi | Ganesh Atharvashirsha in Hindi

Leave a Comment