Mahanubhav Panth Dattatrey Kavach | Sri Dattatreya Kavacham In Hindi
Full Stotra Mahanubhav Panth Dattatrey Kavach Lyrics In Hindi महानुभाव पंथ दत्तात्रेय कवच लिरिक्स इन हिंदी Mahanubhav Panth shri Dattatrey Kavach Stotra श्री दत्तात्रेय प्रभू स्तोत्र – नम् श्रीगुरुदत्तम् दत्तदेवम् जगद्गुरुम् निष्कलम् निर्गुणम् वन्दे श्रीदत्तात्रेय नमोऽस्तुते।
Mahanubhav Panth Dattatrey Kavach Lyrics | Sri Dattatreya Kavacham In Hindi
श्री दत्तात्रेय कवच
नम् श्रीगुरुदत्तम् , दत्तदेवम् जगद्गुरुम् ।
निष्कलम् निर्गुणम् वन्दे , श्रीदत्तात्रेय ! नमोऽस्तुते || १ ||
सुरेशवन्दितम् देवम् त्रैलोक्यलोकवन्दितम् l
हरिहरात्मभूवंद्यम् , श्रीदत्तात्रेय ! नमोऽस्तुते || २ ||
ब्रह्मलोकेषु भूतेषु , शंखचक्रगदाधरम् l
पाणिपात्रधरम् देवम् , श्रीदत्तात्रेय ! नमोऽस्तुते ।। ३ ।।
निर्मलम् रक्तवर्णच , सुंदरम् स्वांग शोभितम् ।
सुलोचनम् विशालाक्षम् , श्रीदत्तात्रेय ! नमोऽस्तुते || ४ ||
विभूतिशोभितम् देहम् , हारकेयुरराजितम् ।
अनन्यकरुणाकारम् , श्रीदत्तात्रेय ! नमोऽस्तुते || ५ ||
विभूतियुक्तभालम् च , जटामुकुटमंडितम् ।
सुदीप्तौ कुण्डलौ कर्णे , श्रीदत्तात्रेय ! नमोऽस्तुते || ६ ||
प्रसन्नवदनम् देवम् , भुक्तिमुक्तिप्रदायकम् ।
त्वाम् नमामि जगत्राता , श्रीदत्तात्रेय ! नमोऽस्तुते ।। ७ ।।
राजराजम् महाराजम् , कार्तवीर्यवरप्रदम् ।
सुभद्रम् भद्रकल्याणम् , श्रीदत्तात्रेय ! नमोऽस्तुते || ८ ||
अनसूयोदराजातम् , अत्रिमुनिसमुद्भवम् ।
विरक्तैर्योगिभिर्जेयम् , श्रीदत्तात्रेय ! नमोऽस्तुते ॥ ९ ॥
दिगम्बरम् तनुश्रेष्ठम् , ब्रह्मचारी व्रतेस्थिरम् ।
भिक्षुच्च दण्डिनम् चैव , श्रीदत्तात्रेय ! नमोऽस्तुते ॥ १० ॥
कदायोगंम् कदाभोगम् , बाललीलाभिःशोभितम् ।
दशरत्नपक्तिम् च , श्रीदत्तात्रेय ! नमोऽस्तुते ॥११ ॥
भूतबाधा भयोन्माद , ग्रहपीडा विनाशकम् ।
दारिद्र व्यसनोहारम् , श्रीदत्तात्रेय ! नमोऽस्तुते || १२ ।।
चतुर्दश्याम् भृगौ घसे , जन्म मार्गशीर्ष शुभे ।
यस्य तम् तारकम् वदे , श्रीदत्तात्रेय ! नमोऽस्तुते || १३ ||
रक्तोत्पलदलपादम , सर्वतीर्थप्रकाशकम् ।
वन्दितम् योगिभिःसर्वे , श्रीदत्तात्रेय ! नमोऽस्तुते || १४ ||
ज्ञानिनम् साक्षिणम् देवम् , गतिर्मोक्षप्रदायकम् ।
आत्मभूवम् वरम् कृष्णम् , श्रीदत्तात्रेय ! नमोऽस्तुते || १५ ||
भृगूक्तैर्मधुरैवाक्यैः , श्रीदत्तात्रेय स्तुतिपरैः ।
साक्षादव्यक्तम् स्वयम् ब्रह्म , श्रीदत्तात्रेय ! नमोऽस्तुते || १६ ||
प्राणिनाम् सर्वजातिनाम् , कर्मपाशप्रभञ्जकम् ।
श्रीदत्तात्रेय स्तुतिस्तोत्रम् , सर्वकार्यविधायकम् ॥ १७ ॥
अपुत्रो लाभते पुत्रम् , धनधान्यसमान्वितम् ।
राजमान्यो भवेत् लक्ष्मीम् प्राप्ताम् लभते क्षणात् ॥ १८ ॥
त्रिसन्ध्या जपमानस्य , श्रीदत्तात्रेय स्तुतिपराम् ।
तस्यरोगभयम् नास्ति , दीर्घायुर्विजयि भवेत् ।। १ ९ ।।
कृष्माण्डा : डाकिनी यक्षः , पिशाचःब्रह्मराक्षसः ।
स्तोत्र श्रवणमात्रेण , नश्यन्ति नात्रसशयः ॥२० ॥
एकविंशति श्लोकानाम , यःसहस्त्रं पठेन्नरः ।
प्रयतःप्रातरूत्थाय , साक्षादेवम् स पश्यति ॥२१ ॥
इति श्री दत्तात्रेय कवच संपूर्ण ।।