Alavandar Stotram Lyrics | आलवन्दार स्तोत्र लिरिक्स
Full Alavandar Stotram Lyrics आलवन्दार स्तोत्र लिरिक्स इन हिंदी Alavandar Stotra Ratnam / Alavandar Stotram in Sanskrit. Full Original Alavandar Stotram – स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम्। स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम्॥ नमोऽचिन्त्याद्भुताक्लिष्ट ज्ञानवैराग्यराशये। नाथाय मुनये गाधभगवद्भक्तिसिन्धवे॥
Alavandar Stotram Lyrics | Alavandar Stotra Ratnam
स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् ।
स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥
नमो नमो यामुनाय यामुनाय नमो नमः ।
नमो नमो यामुनाय यामुनाय नमो नमः ॥
नमो यामुनपादाब्जरेणुभिः पावितात्मने ।
विदिताखिल वेद्याय गुरवे विदितात्मने ॥
नमोऽचिन्त्याद्भुताक्लिष्ट ज्ञानवैराग्यराशये ।
नाथाय मुनये गाधभगवद्भक्तिसिन्धवे ॥ १॥
तस्मै नमो मधुजिदङ्घिसरोजतत्त्व ज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् ॥ २॥
भूयो नमोऽपरिमिताच्युतभक्तितत्त्व ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोके वतीर्णपरमार्थसमग्रभक्ति योगाय नाथमुनये यमिनां वराय ॥ ३॥
तत्त्वेन यश्चिदचिदीश्वरतत्स्वभाव भोगापवर्गतदुपायगतीरुदारः ।
सन्दर्शयन्निरममीत पुराणरत्नं तस्मै नमो मनिवराय पराशराय ॥ ४॥
माता पिता युवतयस्तनया विभूति स्सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर्वकुलाभिरामम् श्रीमत्तदङ्घियुगलं प्रणमामि मूर्ना ॥ ५॥
यन्मङि मे श्रुतिशिरस्स् च भाति यस्मि न्नस्मन्मनोरथपथस्सकलस्समेति ।
स्तोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दमरविन्दविलोचनस्य ॥ ६॥
तत्त्वेन यस्य महिमार्णवशीकराणुश्शक्यो न मातुमपि शर्वपितामहाद्यैः ।
कर्तुं तदीयमहिमस्तुतिमुद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ॥ ७॥
यद्वा श्रमावधि यथामति वाप्यशक्तस्स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः ।
वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः ॥ ८॥
किञ्चैष शक्त्यतिशयेन न तेऽनुकम्प्य स्स्तोतापि तु स्तुतिकृतेन परिश्रमेण ।
तत्र श्रमुस्तु सुलभो मम मन्दबुद्धे रित्युद्यमोऽयमुचितो मम चाब्जनेत्र ॥ ९॥
नावेक्षसे यदि ततो भुवनान्यमूनि नालं प्रभो भवितुमेव कुतः प्रवृत्तिः ।
एवं निसर्गसुहृदि त्वयि सर्वजन्तो स्स्वामिन्निचित्रमिदमाश्रितवत्सलत्वम् ॥ १०॥
स्वाभाविकानवधिकातिशयेशितृत्वं नारायण त्वयि न मृष्यति वैदिकः कः ।
ब्रह्मा शिवश्शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविपुषस्ते ॥ ११॥
कश्श्रीश्श्रियः परमसत्त्वसमाश्रयः कः कः पुण्डरीकनयनः पुरुषोत्तमः कः ।
कस्यायुतायुतशतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥ १२॥
वेदापहारगुरुपातकदैत्यपीडाद्यापद्विमोचनमहिष्ठफलप्रदानैः ।
को न्यः प्रजापशपती परिपाति कस्य पादोदकेन स शिवस्स्वशिरोधतेन ॥ १३॥
कस्योदरे हरविरिञ्चिमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभेः ।
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः केन वैष परवानिति शक्यशङ्कः ॥ १४॥
त्वां शीलरूपचरितैः परमप्रकृष्टसत्त्वेन सात्विकतया प्रबलैश्च शास्त्रैः ।
प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धम् ॥ १५॥
Alavandar Stotram Lyrics
उल्लवितत्रिविधसीमसमातिशायिसम्भावनं तव परिवढिमस्वभावम् ।
मायाबलेन भवताऽपि निगूह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥ १६॥
यदण्डमण्डान्तरगोचरं च यद्द शोत्तराण्यावरणानि यानि च ।
गुणाः प्रधानं पुरुषः परम्पदं परात्परं ब्रह्म च ते विभूतयः ॥ १७॥
वशी वदान्यो गुणवानृजुश्शुचि म॒दुर्दयालुमधुरस्स्थिरस्समः ।
कृती कृतज्ञस्त्वमसि स्वभावत स्समस्तकल्याणगुणामृतोदधिः ॥ १८॥
उपर्युपर्यब्जभुवोऽपि पूरुषान् प्रकल्प्य ते ये शतमित्यनुक्रमात् ।
गिरस्त्वदेकैकगुणावधीप्सया सदास्थिता नोद्यमतोऽतिशेरते ॥ १९॥
त्वदाश्रितानां जगद्भवस्थिति प्रणाशसंसारविमोचनादयः ।
भवन्ति लीलाविधयश्च वैदिका स्त्वदीयगम्भीरमनोऽनुसारिणः ॥ २०॥
नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये।
नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे ॥ २१॥
न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिश्शरण्य त्वत्पादमूलं शरणं प्रपद्ये ॥ २२॥
न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि ।
सोऽहं विपाकावसरे मुकुन्द कन्दामि सम्प्रत्यगतिस्तवाग्रे ॥ २३॥
निमज्जतोऽनन्तभवार्णवान्त श्चिराय मे कलमिवासि लब्धः ।
त्वयापि लब्धं भगवन्निदानीम नुत्तमं पात्रमिदं दयायाः ॥ २४॥
अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् ।
किन्तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥ २५॥
निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपङ्कजम् ।
रूषा निरस्तोऽपि शिशुस्स्तनन्धयो न जातु मातुश्चरणौ जिहासति ॥ २६॥
तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति ।
स्थिते रविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥ २७॥
त्वदङ्घिमुद्दिश्य कदापि केनचि द्यथा तथा वाऽपि सकृत्कृतोऽञ्चलिः ।
तदैव मुष्णात्यशुभान्यशेषत श्शुभानि पुष्णाति न जातु हीयते ॥ २८॥
उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्व्याप्य परां च निर्वृतिम् ।
प्रयच्छति त्वच्चरणारुणाम्बुज द्वयानुरागामृतसिन्धुशीकरः ॥ २९॥
विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् ।
धनं मदीयं तव पादपङ्कजम् कदा नु साक्षात्करवाणि चक्षुषा ॥ ३०॥
कदा पुनश्शङ्खरथाङ्गकल्पक ध्वजारविन्दाङ्कुशवज्रलाञ्छनम् ।
त्रिविक्रम त्वच्चरणाम्बुजद्वयम् मदीयमूर्धानमलङ्करिष्यति ॥ ३१॥
विराजमानोज्ज्वलपीतवाससम् स्मितातसीसूनसमामलच्छविम् ।
निमग्ननाभिं तनुभध्यमुन्नतम् विशालवक्षस्स्थलशोभिलक्षणम् ॥ ३२॥
चकासतं ज्याकिणकर्कशैश्शुभै श्चतुर्भिराजानुविलम्बिभिर्भुजैः ।
प्रियावतंसोत्पलकर्णभूषण श्लधालकाबन्धविमर्दशंसिभिः ॥ ३३॥
उदग्रपीनांसविलम्बिकण्डला लकावलीबन्धुरकम्बुकन्धरम् ।
मुखश्रिया न्यक्कृतपूर्णनिर्मला मृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥ ३४॥
प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभूलतमुज्ज्वलाधरम् ।
शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ॥ ३५॥
Alavandar Stotra Ratnam
स्फुरत्किरीटाङ्गदहारकण्ठिका मणीन्द्रकाजीगणनपरादिभिः ।
रथाङ्गशङ्खासिगदाधनुर्वरैलसत्तुलस्यावनमालयोज्ज्वलम् ॥ ३६॥
चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ॥ ३७॥
स्ववैश्वरूप्येण सदाऽनुभूतया प्यपूर्ववद्विस्मयमादधानया।
गुणेन रूपेण विलासचेष्टितै स्सदा तवैवोचितया तव श्रिया ॥ ३८॥
तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणित्रातमयूखमण्डल प्रकाशमानोदरदिव्यधामनि ॥ ३९॥
निवासशय्यासनपादुकांशुको पधानवर्षात पवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतै यथोचितं शेष इतीर्यते जनैः ॥ ४०॥
दासस्सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घिसम्मर्दकिणाङ्कशोभिना ॥ ४१॥
त्वदीयभुक्तोज्झितशेषभोजिना त्वया निवृष्टात्मभरेण यद्यथा ।
प्रियेण सेनापतिना न्यवेदि ततथाऽनुजानन्तमुदारवीक्षणैः ॥ ४२॥
हताखिलक्लेशमलैस्स्वभावत स्सदानुकूल्यैकरसैस्तवोचितैः ।
गृहीततत्तत्परिचारसाधने निषेव्यमाणं सचिवैर्यथोचितम् ॥ ४३॥
अपूर्वनानारसभावनिर्भर प्रबद्धया मुग्धविदग्धलीलया ।
क्षणाणुवक्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम् ॥ ४४॥
अचिन्त्यदिव्याद्भुतनित्ययौवन स्वभावलावण्यमयामृतोदधिम् ।
श्रियश्श्रियं भक्तजनैकजीवितं समर्थमापत्सस्खमर्थिकल्पकम् ॥ ४५॥
भवन्तमेवानुचरन्निरन्तर प्रशान्तनिश्शेषमनोरथान्तरः ।
कदाहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥ ४६॥
धिगशुचिमविनीतं निर्दयं मामलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।
विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥ ४७॥
अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥४८॥
अविवेकघनान्धदिमखे बहुधा सन्ततदुःखवर्षिणि।
भगवन्भवदुर्दिने पथ स्खलितं मामवलोकयाच्युत ॥ ४९॥
न मृषा परमार्थमेव मे शृणु विज्ञापनमेकमग्रतः ।
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥ ५०॥
तदहं त्वदृते न नाथवान् मदते त्वं दयनीयवान्न च ।
विधिनिर्मितमेतदन्यं भगवन्पालय मा स्म जीहप ॥ ५१॥
वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः ।
तदयं तव पादपद्मयो रहमद्यैव मया समर्पितः ॥ ५२॥
मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव ।
नियतस्वमिति प्रबुद्धधी रथवा किन्नु समर्पयामि ते ॥ ५३॥
अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम् ।
कृपयैवमनन्यभोग्यताम् भगवन्भक्तिमपि प्रयच्छ मे ॥ ५४॥
तवदास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे।
इतरावसथेषु मास्म भू दपि मे जन्म चतुर्मुखात्मना ॥ ५५॥
सकत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ॥ ५६॥
न देहं न प्राणान्न च सुखमशेषाभिलषितं न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् ।
बहिर्भूतं नाथ क्षणमपि सहे यातु शतथा विनाशं तत्सत्यं मधुमथन विज्ञापनमिदम् ॥ ५७॥
दुरन्तस्यानादेरपरिहरणीयस्य महतो विहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे । तव स्मारं स्मारं गणगणमितीच्छामि गतभीः ॥ ५८॥
अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजस्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीमरचयम् ।
तथापीत्थं रूपं वचनमवलम्ब्यापि कृपया त्वमेवैवं भूतं धरणिधर मे शिक्षय मनः ॥ ५९॥
पिता त्वं माता त्वं दयित तनयस्त्वं प्रियसुहृत्त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम् ।
त्वदीयस्त्वम॒त्यस्तव परिजनस्त्वद्गतिरह प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः ॥ ६०॥
जनित्वाऽहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् ।
निसर्गादेव त्वच्चरणकमलैकान्तमनसामधोधः पापात्मा शरणद निमज्जामि तमसि ॥ ६१॥
अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्टः कथमहमितो दुःखजलधे रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२॥
रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्णः ।
प्रतिभवमपराद्धुर्मुग्धसायुज्यदोऽभूवंद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥ ६३॥
ननु प्रपन्नस्सकृदेव नाथ तवाहमस्मीति च याचमानः ।
तवानुकम्प्यस्स्मरतः प्रतिज्ञा मदेकवर्जं किमिदं व्रतं ते ॥ ६४॥
अकृत्रिमत्वच्चरणारविन्द प्रेमप्रकर्षावधिमात्मवन्तम् ।
पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ॥६५॥
यत्पादाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयां नमामितम् ॥ ६६॥
॥ इति श्रीमद्यामुनमुनिविरचितं श्रीआलवन्दारस्तोत्ररत्नं सम्पूर्णम् ॥